वांछित मन्त्र चुनें

स्व॒र्जितं॒ महि॑ मन्दा॒नमन्ध॑सो॒ हवा॑महे॒ परि॑ श॒क्रं सु॒ताँ उप॑ । इ॒मं नो॑ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जय॑न्तं म॒घवा॑नमीमहे ॥

अंग्रेज़ी लिप्यंतरण

svarjitam mahi mandānam andhaso havāmahe pari śakraṁ sutām̐ upa | imaṁ no yajñam iha bodhy ā gahi spṛdho jayantam maghavānam īmahe ||

पद पाठ

स्वः॒ऽजित॑म् । महि॑ । म॒न्दा॒नम् । अन्ध॑सः । हवा॑महे । परि॑ । श॒क्रम् । सु॒तान् । उप॑ । इ॒मम् । नः॒ । य॒ज्ञम् । इ॒ह । बो॒धि॒ । आ । ग॒हि॒ । स्पृधः॑ । जय॑न्तम् । म॒घऽवा॑नम् । ई॒म॒हे॒ ॥ १०.१६७.२

ऋग्वेद » मण्डल:10» सूक्त:167» मन्त्र:2 | अष्टक:8» अध्याय:8» वर्ग:25» मन्त्र:2 | मण्डल:10» अनुवाक:12» मन्त्र:2


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (महि) महान् (स्वर्जितम्) सुख के जेता (मन्दसानम्) आनन्द देनेवाले (शक्रम्) शक्तिमान् राजा को (परि हवामहे) हम सब प्रकार से आमन्त्रित करते हैं (सुतान्-अन्धसः) निष्पादित अन्नभोगों को (उप) उपयुक्त करे (इह) इस अवसर पर (नः) हमारे (इमं यज्ञम्) इस सत्कारयज्ञ को (बोधि) जान-स्वीकार कर (आ गहि) आजा (स्पृधः) संग्रामों को (जयन्तम्) जीतते हुए (मघवानम्) ऐश्वर्यवान् राजा को (ईमहे) चाहते हैं अपनी शरण देने को ॥२॥
भावार्थभाषाः - राजा गुणों बलों में महान् संग्राम जीतनेवाला प्रजाजनों द्वारा सत्करणीय होता है, प्रजा का महान् शरण है, शरणीय है ॥२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (महि स्वर्जितं मन्दसानम्) महान्तं सुखस्य जेतारमानन्दयन्तम् (शक्रं परि हवामहे) शक्तं शक्तिमन्तं राजानं सर्वत्र आमन्त्रयामहे (सुतान्-अन्धसः-उप) निष्पादितान्-अन्नादिभोगान् “अन्धः अन्ननाम” [निघ० २।७] अस्मदर्थमुपयुक्तान् कुर्यात् (इह) अस्मिन्नवसरे (नः इमं यज्ञं बोधि आगहि) अस्माकमेतत्सत्कारयज्ञं बुध्यस्व “कर्तरि कर्मप्रत्ययो व्यत्ययेन” आगच्छ (स्पृधः-जयन्तम्-मघवानम् ईमहे) संग्रामान् “स्पृधः संग्रामनाम” [निघ० २।१७] जयन्तमैश्वर्यवन्तं त्वां राजानं याचामहे स्वशरणं दातुम् ॥२॥